.jpg&w=256&q=75)
Mantra of The Day
"Om Hreem Shreem Lakshmyai Namah"

Drishya Siddhant based Panchang
Ya Kundendu-Tusharhaar
॥ श्री सरस्वती स्तोत्रम् ॥ या कुन्देन्दु-तुषारहार-धवलाया शुभ्र-वस्त्रावृता या वीणावरदण्डमण्डितकराया श्वेतपद्मासना। या ब्रह्माच्युत-शङ्कर-प्रभृतिभिर्देवैःसदा पूजिता सा मां पातु सरस्वती भगवतीनिःशेषजाड्यापहा॥1॥ दोर्भिर्युक्ता चतुर्भिःस्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण। भासा कुन्देन्दु-शङ्खस्फटिकमणिनिभाभासमानाऽसमाना सा मे वाग्देवतेयं निवसतुवदने सर्वदा सुप्रसन्ना॥2॥ आशासु राशी भवदंगवल्लि भासैवदासीकृत-दुग्धसिन्धुम्। मन्दस्मितैर्निन्दित-शारदेन्दुंवन्देऽरविन्दासन-सुन्दरि त्वाम्॥3॥ शारदा शारदाम्बोजवदना वदनाम्बुजे। सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात्॥4॥ सरस्वतीं च तां नौमि वागधिष्ठातृ-देवताम्। देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः॥5॥ पातु नो निकषग्रावा मतिहेम्नः सरस्वती। प्राज्ञेतरपरिच्छेदं वचसैव करोति या॥6॥ शुद्धां ब्रह्मविचारसारपरमा-माद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्। हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्॥7॥ वीणाधरे विपुलमंगलदानशीले भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये। कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम्॥8॥ श्वेताब्जपूर्ण-विमलासन-संस्थिते हे श्वेताम्बरावृतमनोहरमंजुगात्रे। उद्यन्मनोज्ञ-सितपंकजमंजुलास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम्॥9॥ मातस्त्वदीय-पदपंकज-भक्तियुक्ता ये त्वां भजन्ति निखिलानपरान्विहाय। ते निर्जरत्वमिह यान्ति कलेवरेण भूवह्नि-वायु-गगनाम्बु-विनिर्मितेन॥10॥ मोहान्धकार-भरिते हृदये मदीये मातः सदैव कुरु वासमुदारभावे। स्वीयाखिलावयव-निर्मलसुप्रभाभिः शीघ्रं विनाशय मनोगतमन्धकारम्॥11॥ ब्रह्मा जगत् सृजति पालयतीन्दिरेशः शम्भुर्विनाशयति देवि तव प्रभावैः। न स्यात्कृपा यदि तव प्रकटप्रभावे न स्युः कथंचिदपि ते निजकार्यदक्षाः॥12॥ लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः। एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती॥13॥ सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः। वेद-वेदान्त-वेदांग-विद्यास्थानेभ्य एव च॥14॥ सरस्वति महाभागे विद्ये कमललोचने। विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते॥15॥ यदक्षर-पदभ्रष्टं मात्राहीनं च यद्भवेत्। तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि॥16॥ ॥ इति श्रीसरस्वती स्तोत्रम् संपूर्णं ॥
